पुत्र पति इत्येतस्योरुत्तरपदयोस् तत्पुरुषे समासे ष्यङः संप्रसारणं भवति। यणः स्थाने इग् भवति इत्यर्थः। कारीषगन्धीपुत्रः। कारिषगन्धीपति। कौमुदगन्धीपुत्रः। कौमुदगन्धीपतिः। करीषस्य इव गन्धो ऽस्य, कुमुदस्य इव गन्धो ऽस्य इति बहुव्रीहिः, तत्र उपमानाच् च
५।४।१३७ इति गन्धस्य इदन्तादेशः। करीषगन्धेः अपत्यम् इत्यण्, तदन्तात् स्त्रियाम् अणिञोरन्नर्षयोर् गुरूपत्तमयोः ष्यङ् गोत्रे
४।१।७८ इति ष्यङ्, ततश्च अपि विहिते षष्ठीसमासः, सम्प्रसारणस्य
६।३।१३८ इति दीर्घत्वम्।
ष्यङः इति इम्? भ्यापुत्रः। क्षत्रियापुत्रः।
पुत्रपत्योः इति किम्? कारीषगन्ध्याकुलम्। कौमुदगन्ध्याकुलम्।
तत्पुरुषे इति किम्? कारीषगन्ध्या पतिरस्य ग्रामस्य कारीषगन्ध्यापतिः अयं ग्रामः। ष्यङः इति स्त्रीप्रत्ययग्रहणं न स्त्रीप्रत्यये चानुपसर्जने इति प्रत्ययग्रहणपरिभाषया यस्मात् स विहितः तदादेः इत्येष नियमो न अस्ति, तेन परमकारीषगन्ध्यायाः पुत्रः परमकारीषगन्धीपुत्रः, परमकारीषगन्धीपतिः इत्यपि भवति। उपसर्जने तु ष्यङि न भवति। अतिक्रान्ता कारीषगन्ध्याम् अतिकारीषगन्ध्या, तस्य पुत्रः अतिकारीषगन्ध्यापुत्रः। अतिकारीषगन्ध्यापति। पुत्रपत्योः केवलयोः उत्तरपदयोः इदं सम्प्रसारणं, तदादौ तदन्ते च न भवति, कारीषगन्ध्यापुत्रकुलम्, कारिषगन्ध्यापरमपुत्रः इति। ष्यङन्ते च यद्यप्यन्ये यणः सन्ति, तथापि ष्यङः एव सम्प्रसारणं, निर्दिश्यमानस्य आदेशा भवन्ति इति। सम्प्रसारणम् इति चाधिक्रियते विभाषा परेः
६।१।४३ इति यावत्।
सम्प्रसारणमिति यण्स्थानिकस्येक एषा संज्ञा विहिता, वाक्यार्थस्य च। "इग्यणः"
१।१।४४ इति योऽयं वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणस्तस्य तत्र चेदमुक्तमनुवादे वर्ण उपतिष्ठते, विधौ तु वाक्यार्थ इति; विधिश्चायम्(), अतो वाक्यार्थस्यैवोपस्थानमित्याह--"यणः स्थाने" इत्यादि। "ततश्चापि विहिते" इति। "यङ्श्चाप्()"
४।१।७४ इत्येनेन। "इभ्यापुत्रः" इति। इभमैइतीति "दण्डादिभ्यो यः"
५।१।६५। "क्षत्रियापुत्रः" इति।
क्षतत्रस्यापत्यमिति "क्षत्रात्? धः"
४।१।१३८ इति धः।
"ष्यङः" इति प्रत्ययग्रहणमिदम्(), तत्र प्रत्यग्रहणपरिभाषाया (पु।प।वृ।
४४) अपस्थानाद्? यस्मात्? स विहितस्तदादेस्तदन्तस्येति तदादितदन्तग्रहणमिहैव स्यात्()--कारीषगन्धीपुत्र इति, इह तु न स्यात्()--परमकारोषगन्धीपुत्र इति; कारीषगन्धशब्दाद्धि ष्यङ् विहितः,
न परमकारीषगन्धशब्दात्()? अत इदं द्वेष्यमपाकर्त्तु माह--"ष्यङिति स्त्रीप्रत्ययग्रहणम्()" इति "स्त्रियाम्()"
४।१।३ इत्यधिकृत्य विहितत्वात्()। स्त्रीत्वं स्थानिवद्बावेन च प्रत्ययत्वं ष्यङः, न हि तस्यान्यथा स्त्रीप्रत्ययत्वमुपपद्यते; आदेशपक्षस्य च तत्राश्रितत्वात्()। यदि स्त्रीप्रत्ययग्रहणमेतत्();
ततश्च किमिति? तदादिनियमो न भवति; यतोऽधिकस्याप्यत्र ग्रहणं स्यात्(), अतिप्रसङ्गो वा। असति हि नियमे यथेह भवति--परमकारीषगन्धीपुत्र इति, तथेहापि स्यात्()--अतिकारीषग्न्ध्यापुत्र इति, अत आह--"नस्त्रीप्रत्यये च" इत्यादि। प्रत्यग्रहणपरिभाषाया "न स्त्रीप्रत्यये चानुपसर्जने" (पु।प।वृ।४५) इत्ययमपवादः कृतः। तेन यत्रानुपसर्जनः स्त्रीप्रत्ययस्तत्रैषा प्रत्ययग्रहणपरिभाषां न प्रवत्र्तत इति तदादिनियमो नास्ति, तेन परमकारीषन्धीपुत्र इत्यत्र भवत्येव। अत्र हि परमाचासौ कारीषगन्ध्य#आ चेति "सन्महत्()"
२।१।६० इत्यादिना समासः, स्त्रीप्रत्ययस्य प्राधान्यम्(), "स्त्रियाः पुंवत्()"
६।३।३३ इत्यादिना पुंवद्भावः। यत्र तूपसर्जनं स्त्रीप्रत्ययस्तत्रानुपर्जन इति वचनादुपतिष्ठत एवैषा परिभावा। तेन भवत्येवात्र तदादिनियमः। तेनेह न भवति--अतिकारीषन्ध्यापुत्र इति। अत्र हि कारीषगन्ध्यामतिक्रान्त इति प्रादिसमासः। अत्र योसावतिक्रान्तः स प्रधानम्(), कारिषगन्ध्या तूपसर्जनम्()। अत एव "गोस्त्रियोरुपसर्जनस्य"
१।२।४८ इति ह्यस्वो भवति। पुत्रपत्योः सम्प्रससारणे तदादावतिप्रसङ्गः। इहापि प्राप्नोति--कारीषगन्ध्यापुत्रकुलमिति। तथा हि--पुत्रपत्योरिति सप्तमी कार्यिण आनन्तर्यमाचष्टे, ततश्च शुद्धयोस्तदादौ चाविशिष्टम्()।
अथापि कथञ्चित्? तदादौ न स्यात्(), एवमपि "येन विधिस्तदन्तस्य"
१।१।७१ इति तदन्तेऽतिप्रसङ्ग इहापि प्राप्नोति--करीषगन्ध्या परमपुत्र इति।
विधिविधानविधिभाजां त्रयाणां सन्निधाने तदन्तर्विधिर्भवति। ते चेह सन्ति--विधिः सम्प्रसारणम्(),
विधिभाक्? ष्यङ्(), विधानं पतिपुत्रशब्दौ।
इह च तत्पुरुषेमाव्यभिचारात्? सन्निधापितं यदुत्तरपदं तत्? पुत्रपतिशब्दाभ्यां विशेष्यते,
विशेषणेन च तदन्तर्विधिर्भवतीति पुत्रशब्दान्ते पतिशब्दान्ते चोत्तरपदे सम्प्रसारणं भवतीति कस्यचित्? भ्रान्तिः स्यात्(), अस्तां निराकर्त्तुमाह--"पुत्रपत्योः" इत्यादि। एवं मन्यते--तत्पुरुषोऽत्र पुत्रपत्योः ष्यङ्श्चाधिकरणभूतो निर्दिश्यमानस्तत्पुरुषावयवत्वं पुत्रपत्योः ख्यापयति, तद्यथा--वृक्षे शाखेति। वृक्षः शाखाया अधिकरणत्वेन निर्दिश्यमानः शाखायाः वृक्षावयवत्वं बोधयति; तत्र प्रत्यासत्तेः। यत्र तत्पुरुषे ष्यङ् कार्यभागवयवः स्थितः, तस्यैव तत्पुरुषस्य याववयवौ पुत्रपती तयोरेव ग्रहणम्(), न तु पुत्रपत्यादावुत्तरपदे यौ पुत्रपतिशब्दौ तौ तस्यैव ष्यङः पूर्वपदस्य तत्परुरुषस्यावयवौ। अति तु तत्पुरुषान्तरस्यापि पुत्रकुलशब्दस्य पतिकुलशब्तदस्य च।
तस्मात्? तदादौ तावन्न भवत्यतिप्रसंगः। तदन्तेऽपि न भवत्येव; यस्मादिह पुत्रपतिग्रहणं यच्च ततपुरुषेण सन्धापितमुत्तरपदं तयोर्विशेषणविशेष्यभावं प्रति कामचारः।
तत्र यदीहोत्तरपदं पुत्रपतिशब्दाभ्यां विशिष्येत तदा स्यात्? तदन्तविधिः, विशेषणेन तदन्तविधिर्भवतीति कृत्वा। न चेह ताभ्यां तद्विशिष्यते, अपि तु तावेव तेन;
ततश्च तदन्तरविधेरभावात्? केवलयोरेवेदं विशेषणं भवतीति कुतस्तदन्तोऽतिप्रसङ्ग? ननु च यद्युत्तरपदेन पुत्रपती विशिष्येते तेन तयोस्तदन्तता विज्ञायते, ततश्चोत्तरपदपदान्तयोरेव ग्रहणं, न केवलयोः,
एवञ्च तदादावतिप्रसङ्गः? नैतदस्ति; न हि पुत्रपतिशब्दावुत्तरपदान्तौ सम्भवतः। यस्मादयमन्तशब्दोऽवयववचनः। न च पुत्रपतिशब्दयोरहुत्तरपदमवयवः।
किं तर्हि? समासस्य, न च तौ समासौ। तस्मानन्नैवं विज्ञायते---उत्तरपदान्तयोःस पुत्रपतिशब्दयोरिति,
किं तर्हि? पुत्रपत्योरेवोत्तरपदयोः केवलयोरिति।
"येन विधिस्तदन्तस्य"
१।१।७१ इति तदन्तविधिनाऽत्र ष्यङन्तस्य सम्प्रसारणं विज्ञायते, ततश्च वाराहीपुत्र इत्यत्र वकारसयापि सभ्प्रसारणं प्राप्नोतीत्यत आह--"ष्यङ्न्ते च" इत्यादि। तत्रैव कारणमाह--"निर्दिश्यमानस्य" इत्यादि। सम्प्रसारणगरहणमुत्तरार्थम्()। अति हिकारग्रहणेनापि सिध्यत्येव। तां चोत्तरार्थतां तत्रैव दर्शयिष्यामः। तामेवोत्तरार्थतां सूचयन्नाह--"सम्प्रसारणम्()" इत्यादि॥